SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आत्माऽस्ति द्रव्यतो नित्यः पर्यायैः परिणामभाक् । बालादिवयसो ज्ञानं यस्मादेकस्य जायते ॥६८॥ क्षणिक वस्त्विति ज्ञात्वा यः क्षणिकं वदेदहो। स वक्ता क्षणिको नाऽस्ति तदनुभवनिश्चितम् ॥६९॥ कदाऽपि कस्यचिन्नाशो वस्तुनो नैव केवलम् । चेतना नश्यति चेत् तु किंरूपः स्याद् गवेषय ? ७० आत्मा नो कर्मणः कर्ता कर्मकर्ताऽस्ति कर्म वै। वा सहजः स्वभावः स्यात् कर्मणो जीवधर्मता ॥७१ स्यादसंगः सदा जीवो बन्धो वा प्राकृतो भवेत् । वेश्वरप्रेरणा तत्र ततो जीवो न बन्धकः ॥ ७२ ॥ ततः केनाऽपि हेतुना मोक्षोपायो न गम्यते । जीवे कर्मविधातृत्वं नास्त्यस्ति चेन्न नश्यताम् ॥ ७३ चेतनप्रेरणा न स्यादादद्यात् कर्म कः खलु ? । प्रेरणा जडजा नाऽस्ति वस्तुधर्मो विचार्यताम्॥७॥
SR No.009726
Book TitleAatmsiddhi Shastra In Sanskrit
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year1975
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy