SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अथवा क्षणिकं वस्तु परिणामि प्रतिक्षणम् । तदनुभवगम्यत्वान्नाऽऽत्मा नित्योऽनुभूयते ॥ ६१ ॥ देहमात्रं तु संयोगि दृश्यं रूपि जडं घनम् । जीवोत्पत्ति-लयावत्र नीतौ केनानुभूतिताम् ? ॥ ६२ ॥ उत्पत्ति-लयबोधौ तु यस्यानुभववर्तिनौ । स ततो भिन्न एव स्यान्नान्यथा बोधनं तयोः ||६३ || दृश्यन्ते ये तु संयोगा ज्ञायन्ते ते सदात्मना । नात्मा संयोगजन्योऽतः किन्त्वात्मा शाश्वतः स्फुटम् जादुत्पद्यते जीवो जीवादुत्पद्यते जडम् । एषाऽनुभूतिः कस्यापि कदापि क्वाऽपि नैव रे ! ॥६५ यस्योत्पत्तिस्तु केभ्योऽपि संयोगेभ्यो न जायते । न नाशः संभवेत् तस्य जीवोऽतो ध्रुवति ध्रुवम् ६६ क्रोधादितारतम्यं यत् सर्प -सिंहादिजन्तुषु । पूर्वजन्मजसंस्कारात् तत् ततो जीवनित्यता ॥ ६७॥
SR No.009726
Book TitleAatmsiddhi Shastra In Sanskrit
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year1975
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy