________________
योऽवस्थासु समस्तासु ज्ञायते भेदभाक् सदा । चेतनतामयः स्पष्टः स ह्यात्मा नान्यलक्षणः॥५४॥ घटादिसर्व जानासि अतस्तन्मन्यसे शिशो। तं न जानासि ज्ञातारं तद् ज्ञानं ब्रूहि कीदृशम् ॥५५ कृशे देहे घना बुद्धिरघना स्थूलविग्रहे। स्याद् देहो यदि आत्मैव नैवं तु घटना भवेत् ॥५६ केवलं भिन्न एवाऽस्ति स्वभावो जड-जीवयोः। कदापि न तयोरैक्यं द्वैतं कालत्रिके तयोः ॥५७ ॥ आत्मानं शङ्कते आत्मा स्वयमज्ञानतो ध्रुवम् । यः शङ्कते स वै आत्मा स्वेनाऽहो ! स्वीयशङ्कनम् ५८ शिष्ये भगवता प्रोक्ता आत्माऽस्तित्वस्य युक्तयः । ततः संभवनं तस्य ज्ञायतेऽन्तर्विचारणात् ॥ ५९॥ तथाऽपि तत्र शङ्काऽऽत्मा नश्वरः, नाऽविनश्वरः। देहसंयोगजन्माऽस्ति देहनाशात् तु नाशभाक्॥६०॥