________________
यदि स्याद् भेदवान् जीवोऽनुभूयेत कथं न हि ? 1 यदस्ति सकलं तत् तु ज्ञायते कच - काचवत् ॥ ४७ aisal नैव आत्माsस्ति ततो मुक्तिप्रथा वृथा । एनामाभ्यन्तरीं रेकामुत्कीलय प्रभो ! प्रभो ! ॥४८॥
अध्यासाद् भासिता देह देहिनोः समता, न सा । तयोर्द्वयोः सुभिन्नत्वालक्षणैः प्रकटैरहो ! ॥ ४९ ॥ अध्यासाद् भासिता देह - देहिनोः समता, न सा । तयोर्द्वयोः सुभिन्नत्वादसिकोशायते ध्रुवम् ॥ ५० ॥ दृष्टेष्टाऽस्ति यो वेत्ति, रूपं सर्वप्रकारगम् । भात्यऽबाध्याऽनुभूतिर्या साऽस्ति जीवस्वरूपिका ५१
स्वस्वविषये संज्ञानं प्रतीन्द्रियं विभाति भोः ! | परं तु तेषां सर्वेषां जागर्ति मानमात्मनि ॥ ५२ ॥
न तद् जानाति देहोऽयं नैव प्राणो न चेन्द्रियम् । सत्तया देहिनो देहे तत्प्रवृत्तिं निबोध रे ! ॥ ५३ ॥