________________
क्रोधादियोगतः कर्मबन्धः शान्त्यादिघातकः । अत्रानुभूतिः सर्वेषां तत्र का संशयालुता ? ॥ १०४ ॥ मतदृष्ट्याग्रहं त्यक्त्वा विकल्पाचरणं तथा । आराध्येतोक्तमार्गो यैः तेषां हि जननाल्पता ॥ १०५ ॥ पदषदस्य षट् प्रश्नाः पृष्टाः संचिन्त्य रे ! त्वया। तत्पदानां समूहत्वे मुक्तिवासः सुनिश्चितम् ॥ १०६ ॥ जातेर्वेषस्य नो भेदो यदि स्यादुक्तमार्गता । तां तु यः साधयेत् सद्यो न काचित् तत्र भिन्नता १०७ कषायस्योपशान्तत्वं मोक्षे रुचिर्हि केवलम् । भवे खेदो दया चित्ते सा जिज्ञासा समुच्यते ॥ १०८॥ सद्गुरोर्बोधमाप्नुयात् स जिज्ञासुनरो यदि । तदा सम्यक्त्वलाभः स्यादात्मशोधनता अपि ॥१०९॥ मतदृष्ट्याग्रहैहींना यद्वृत्तिर्गुरुपादयोः । स संलभेत सम्यक्त्वं यत्र भेदो न पक्षता ॥११०॥ अनुभूतिः स्वभावस्य तल्लक्ष्यं तत्र प्रत्ययः । निजतां संवहेद् वृत्तिः सत्यं सम्यक्त्वमुच्यते ॥ १११ ॥