________________
भूत्वा वर्द्धिष्णु सम्यक्त्वं मिथ्याभासं प्रटालयेत् । चारित्रस्योदयस्तत्र वीतरागपदस्थितिः ॥ ११२ ॥ केवलं स्वस्वभावस्य स्थिरा यत्र भवेन्मतिः । सोच्यते केवलज्ञानं देहे सत्यपि निर्वृतिः ॥ ११३ ॥ स्वप्नोऽपि कोटिवर्षस्य निद्रोच्छेदे समाप्यते । विभावोऽनादिजो दूरे नश्येद् ज्ञाने तथा सति ॥ ११४ ॥ देहाध्यासो यदि नश्येत् त्वं कर्ता न हि कर्मणाम् । न हि भोक्ता च तेषां त्वं धर्मस्यैतद् गूढं मतम् ॥ ११५ ॥ मोक्ष एव ततो धर्मान्मोक्षात्मा च त्वमेव भोः ! । अनन्तदर्शनं त्वं च अव्यावाधरूपस्त्वकम् ॥ ११६ ॥ शुद्धो बुद्धश्चिदात्मा च स्वयंज्योतिः सुखालयम् । विचारय ततो विद्धि स्वं बहु तु किमुच्यते ? ॥ ११७ ॥
सर्वेषां ज्ञानिनामत्र समाप्तिमेति निश्चयः । उक्त्वैवं गुरुणा मौनं समाधौ सहजे धृतम् ॥ ११८ ॥