________________
सद्गुरोरुपदेशात् त्वाऽऽगतं भानमपूर्वकम् । निजे निजपदं लब्धमज्ञानं लयतां गतम् ॥ ११९ ॥ तद् भासितं निजं रूपं शुद्धं चैतन्यलक्षणम् । अजरं चामरं स्थास्नु देहातीतं सुनिर्मलम् ॥ १२० ॥ यदा विभावभावः स्याद् भोक्ता कर्ता च कर्मणः । यदाऽविभावभावः स्याद् भोक्ता कतो न कर्मणः १२१ स्वाभाविक्यस्ति वा वृत्तिः शुद्धा या चेतनामयो । तस्याः कर्ताऽस्ति भोक्ताऽस्ति निर्विकल्पस्वरूपभाक् १२२ उक्तो मोक्षो निजा शुद्धिः स मार्गो लभ्यते यतः।। संक्षेपेणोदितः शिष्य ! नैर्ग्रन्थः सकलः पथः॥ १२३ ॥ कृपापानीयकूपार ! गुरुदेव ! अहो ! अहो !। अयमुपकृतो दीनश्चोपकारस्त्वहो ! अहो ! ॥ १२४ ॥ प्रभोः पादे धरेयं किमात्मतो हीनकं समम् । अर्पितः प्रभुणा सोऽस्ति भवेयं तद्वशंवदः ॥१२५॥ अद्यतस्तच्छरीरादि जायतां प्रभुचेटकम् । दासो दासोऽस्मि दासोऽस्मि तत्पभोर्दीनशेखरः ॥१२६