________________
स्थानषदं विसंज्ञाप्य भिन्नं दर्शितवान् भवान् । असिकोशमिवाऽऽत्मानं चामितोऽयमनुग्रहः ॥ १२७ ॥ स्थानषट्वे समाप्यन्ते दर्शनानि षडेव भोः !। न तत्र संशयः कोऽपि यद्यालोच्येत विस्तरम् ॥१२८॥ आत्मभ्रान्तिसमो रोगो नास्ति भिषग् गुरूपमः । गुरोराज्ञासमं पथ्यं ध्यानतुल्यं न चौषधम् ॥ १२९ ॥ प्रेप्सवः परमार्थं ये ते कुर्वन्त्वात्मपौरुषम् । भवस्थित्यादिहेतोस्तु न च्छिन्दन्तु निजं बलम् ॥१३०॥ आकर्ण्य निश्चितां वाणी त्याज्यं नैव सुसाधनम् । रक्षित्वा निश्चये लक्ष्यमाचर्यः साधनाचयः॥ १३१ ॥ निश्चयो व्यवहारो वा नात्रैकान्तेन दर्शितः । यत्र स्थाने यथायोग्यं तथा तद् युगलं भवेत् ॥ १३२॥ सद्व्यवहारहीनाऽस्ति कल्पना मत-गच्छयोः । निजभानाद् ऋते तात! निश्चयो न हि सुन्दरः॥१३३॥ अभूवन् ज्ञानिनः पूर्व वर्तन्ते ये च नाऽऽगताः। विदां तेषां समेषां वै मार्गभेदो न विद्यते ॥ १३४॥