________________
सिद्धतुल्यान् समान् जीवान् यो जानाति भवेत् स सः। अर्हत्स्थितिगुरोराज्ञा निमित्तं तत्र विद्यते ॥ १३५ ॥ उपादानच्छलेनैव निमित्तानि त्यजन्ति ये। लभन्ते सिद्धभावं नो भ्रान्ताः स्युस्ते उत ध्रुवम् ॥१३६ यक्ति ज्ञानकथां वक्त्राञ्चित्तं मोहतमावृतम् । यस्य रङ्कस्य मय॑स्य ज्ञानिद्रोही स केवलम् ॥ १३७ ॥ दया शान्तिः क्षमा साम्यं वैराग्यं त्याग-सत्यते । मुमुक्षुहृदये नित्यमेते स्युः प्रकटा गुणाः ॥ १३८ ॥ यत्राऽस्ति मोहनं क्षीणं वा प्रशान्तं भवेत् तकत् ।। वाच्या ज्ञानिदशा साऽन्या भ्रान्तता स्पष्टमुच्यते १३९ उच्छिष्टान्नायमानं वा स्वप्नवद् वेत्ति यो जगत् । एषा ज्ञानिस्थितिवाच्या शेषं वाग्जालमामतम् ॥१४॥ स्थानपञ्चकमालोच्य षष्ठके यः प्रवर्तते । प्राप्नुयात् पञ्चमं स्थानं नाऽत्र शङ्काकणोऽपि रे ! ॥१४१ देहातीता दशा यस्य देहे सत्यपि वर्तते । तज्ज्ञानिचरणे मेऽस्तु वन्दनाऽगणिता त्रिधा ॥ १४२॥