SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पश्चोत्तरेण संजाता प्रतीतिस्तव ह्यात्मनि । मोक्षोपायस्तथा तात ! एष्यति सहजं मनः ॥९७॥ अज्ञानं कर्मभावोऽस्ति मोक्षभावो निजस्थितिः । ज्वलिते ज्ञानदीपे तु नश्येदज्ञानतातमः ॥ ९८ ॥ यो यो बन्धस्य हेतुः स्याद् बन्धमार्गो भवेत् स सः। बन्धोच्छेदस्थितियों तु मोक्षमार्गों भवान्तकः॥९९॥ रागो द्वेषस्तथाऽज्ञानं कर्मणां ग्रन्थिरग्रगा। यस्मात् तकन्निवृत्तिः स्यान्मोक्षमार्गः स एव भोः ! संश्चेतनामयो जीवः सर्वाभासविवर्जितः। प्राप्यते स यतः शुद्धो मोक्षमार्गः स एव भोः ! ॥११॥ अनन्तभेदकं कर्म चाष्टौ मुख्यानि तेष्वपि । तत्राऽपि मोहना मुख्या वक्ष्ये तद्धनने विधिम् ॥१०२॥ मोहनं द्विविधं तत्र दृष्टि-चारित्रभेदतः। बोधो हि दर्शनं हन्याच्चारित्रं रागहीनता ॥ १०३ ॥ % 3D
SR No.009726
Book TitleAatmsiddhi Shastra In Sanskrit
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year1975
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy