________________
यथा शुभाशुभं कर्म जीवव्यापारतः फलि । फलवन्निर्वाणमप्यस्य तदव्यापारतस्तथा ॥ ८९ ॥ सदसत्कर्मणो भावादनन्तः समयो गतः । संपद्येत तदुच्छेदे जीवे मुक्तिस्वभावता ॥ ९० ॥ आत्यन्तिको वियोगो यो देहादियोगजः खलु । तन्निर्वाणं समाख्यातं तत्राऽनन्तसुखैकता ॥ ९१ ॥ मोक्षस्थानं कदापि स्यान्नाऽविरोध्युपायि तत् । अनन्तकालजः कर्मचयच्छेद्यः कथं भवेत् ? ॥१२॥ वा मतानि सुभिन्नानि नैकोपायप्रद नि । मतं सत्यं तु किं तत्र शक्यैषा न विवेकिता ॥ ९३ ॥ कस्यां जातौ भवेन्मोक्षो वेषे कस्मिंश्च निर्वृतिः ? । निश्चेतुमेतन्नो शक्यं बहुभेदो हि दूषणम् ॥ ९४ ॥ तत एवं हि संसिद्धं मोक्षोपायो न विद्यते । जीवादिज्ञानसंप्राप्तौ कोपकारो भवेदहा!!॥ ९५ ॥ प्रश्नपञ्चोत्तरे लब्धे समाधिः सकलोऽजनि । यदि तत् साधनं विद्यां शिवं श्रेयो भवेच्छिवम् ९६