SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ देवादिगतिभङ्गेषु जानीयाछुतज्ञानताम् । मन्यते निजवेषं यो मुक्तिमार्गस्य कारणम् ॥ २७॥ अप्राप्ते लक्षणे वृत्तवृत्तिमत्त्वाभिमानिता। परमार्थ न विन्देद् यो लोकपूजार्थमात्मनः ॥२८॥ यः शुष्कः शब्दमात्रेण मन्येत निश्चयं नयम् । सद्व्यवहारमालुम्पेद् गच्छेच्च हेतुहीनताम् ॥ २९॥ ज्ञानावस्थां न यः प्राप्तस्तथा साधनसदृशाम् । कुर्वाणस्तेन संगं ना बुडेत् संसारसागरे ॥ ३०॥ मतार्थी जीव एषोऽपि स्वीयमानादिहेतुना। प्रामुयान्न परं तत्त्वमनधिकारिकोटिगः ॥३१॥ कषायोपशमो नैव नान्तर्विरक्तिमत् तथा । सरलत्वं न माध्यस्थ्यं तद् दौर्भाग्यं मतार्थिनः ॥३२ मतार्थिलक्षणं प्रोक्तं मतार्थत्यागहेतवे । आत्मार्थिलक्षणं वक्ष्येऽधुनाऽऽत्मसुखहेतवे ॥३३॥
SR No.009726
Book TitleAatmsiddhi Shastra In Sanskrit
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year1975
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy