________________
आत्मज्ञानं भवेद् यत्र तत्रैव गुरुता ऋता । कुलगुरोः कल्पना ह्यन्या एवमात्मार्थिमान् ना ॥३४ प्रत्यक्षसद्गुरुप्राप्तेर्विन्देदुपकृतिं पराम् । योगत्रिकेन एकत्वाद् वर्तेताऽऽज्ञापरो गुरोः ॥३५॥ त्रिषु कालेषु एकः स्यात् परमार्थपथो ध्रुवम् । प्रेरयेत् परमार्थ तं ग्राह्यो व्यवहार आमतः ॥३६ ॥ अन्तरेवं समालोच्य शोधयेत् सद्गुरोर्युजिम् । कार्यमात्मार्थमेकं तद् नापरा मानसी रुजा ॥३७॥ उपशान्तिः कषायाणां निर्वाणे केवलं गृधिः। भवे खेदो दया सत्त्वे तत्राऽऽत्मार्थत्वसंगतिः॥३८॥ एतादृशीं दशां यावद् योग्यां जीवो लभेत न। मुकिमार्ग न प्रामोति तावच्चाऽस्त्यान्तरी रुजा॥३९॥ स्यादीदृशी दशा यत्र सद्गुरुबोधपूर्विका । सद्विचारः तयाऽऽविस्स्यात् सुखदोऽदुःखदो नृणाम्