SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ विनयस्येदृशो मार्गो भाषितः श्रीजिनेश्वरैः । एतन्मार्गस्य मूलं तु कश्चिज्जानाति भाग्यवान् ॥२०॥ यद्यसद्गुरुरेतस्य किञ्चिल्लाभं लभेत तु । महामोहवशान्मज्जेद् भवाम्भोधौ भयंकरे ॥ २१ ॥ मुमुक्षुर्यदि जीवः स्याज्जानातीमां विचारणाम् । मतार्थी यदि जीवः स्याज्जानीयाद् विपरीतताम् ॥ मतार्थी पुरुषो यः स्यान्नात्मान्वेषी स संभवेत् । तस्याऽत्र लक्षणं प्रोक्तं पक्षदोषविवर्जितम् ॥ २३ ॥ ज्ञानहीनं गुरुं सत्यं बाह्यत्यागपरायणम् । मन्येत, वा ममत्वं वै कुलधर्मगुरौ धरेत् ॥ २४ ॥ जिनस्य ऋद्धिं देहादिमानं च जिनवर्णनम् । मनुते, स्वीयबुद्धिं यस्तत्रैवाऽभिनिविशते ॥ २५ ॥ प्रत्यक्षसद्गुरोर्योगे कुर्याद् दृष्टिविमुखताम् । योऽसद्गुरुं दृढीकुर्यान्निजमानाय मुख्यतः ॥ २६ ॥
SR No.009726
Book TitleAatmsiddhi Shastra In Sanskrit
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year1975
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy