SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ यत्र प्रत्यक्षता नास्ति सद्गुरुतातपादीया । सत्पात्रे शरणं शास्त्रं तत्रात्मादिनिरूपकम् ॥ १३ ॥ सद्गुरुणाऽथवा प्रोक्तं यद् यदात्महिताय तत् । नित्यं विचार्यतामन्तस्त्यक्त्वा पक्ष-मतान्तरम् ॥१४॥ रुन्धीत जीवः स्वातन्त्र्यं प्राप्नुयान्मुक्तिमेव तु । एवमनन्ताः संप्राप्ता उक्तमेतजिनेश्वरैः॥ १५ ॥ प्रत्यक्षसद्गुरुयोगात् स्वातन्त्र्यं रुध्यते तकत् । अन्यैस्तु साधनोपायैः प्रायो द्विगुणमेव स्यात् ॥१६ वर्तनं सद्गुरुलक्ष्ये त्यक्त्वा स्वातन्त्र्यमात्मनः । मताग्रहं च, सम्यक्त्वमुक्तं प्रत्यक्षकारणात् ॥१७॥ स्वातन्त्र्यान्न हि हन्यन्ते महामानादिशत्रवः। सद्गुरोः शरणे प्राप्ते नाशस्तेषां सुसाधनः ॥ १८ ॥ यत्सद्गुरूपदेशे यः प्रापद् ज्ञानमपश्चिमम् । छाद्मस्थ्येऽपि गुरोस्तस्य वैयावृत्त्यं करोति सः॥१९
SR No.009726
Book TitleAatmsiddhi Shastra In Sanskrit
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year1975
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy