________________
श्रीमद् राजचन्द्रप्रणीत आत्मसिद्धि।
यत्स्वरूपमविज्ञाय प्राप्तं दुःखमनन्तकम् । तत्पदं ज्ञापितं येन तस्मै सद्गुरवे नमः॥१॥ वर्तमाने कलौ प्रायो मोक्षमार्गस्य लुप्तता । सोऽत्राऽतो भाष्यते स्पष्टमात्मार्थिनां विचारणे॥२॥ केचित् क्रियाजडा जाताः केचिद् ज्ञानजडा जनाः। मन्वते मोक्षमार्ग तं दृष्ट्वाऽनुकम्पते मनः॥ ३ ॥ बाह्यक्रियासमासक्ता विवेकविकला नराः। ज्ञानमार्ग निषेधन्तस्तेऽत्र क्रियाजडा मताः॥४॥ 'कल्पितौ बन्ध-मोक्षौ स्तः' इति वाग् यस्य केवलम् । चरितं मोहनापूर्ण तेऽत्र ज्ञानजडा जनाः ॥५॥