Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 189
________________ १६८ Jain Education International पद्मसुन्दरसूरिविरचित साङ्गरागकलिताङ्गवासना भूषणांशुकचयैः पृथग्विधैः । नित्यमेत्यथ नवोढसुन्दरी विभ्रमं स्म दधती हृदीशितुः ॥७३॥ जातुचित्प्रणयिनि प्रियार्थनां कुर्वति व्यधित सा स्ववामताम् । कोपरोपिणि च सानुकूलता मातदीहितमथो व्युपारमत् ॥७४॥ - तं च कोकनदचुम्बिषट्पद श्रीधरं तदधर विलोक्य सा । सिष्मिये स्मितनिदान पृच्छक प्रत्युवाच मुकुरार्पणात्करे ||७५ || यस्तदीयमणिमण्डनैः क्वचित् सन्तुतोष विषसाद स क्वचित् । वल्लभः स्फुटतदङ्गरोचिषां सन्दिदृक्षुरपिधाविधायिभिः ॥७६॥ तत्त्वदङ्ग परिरम्भचुम्बना कामिनीं स चकमेऽथ कामुको स्वादवीक्षणरतोत्सवद्रवैः । नासकृत्क्वचिदवाप तर्पणम् ॥७७ || इत्थं निर्भरचा टुगर्भवचनैराश्वास्य विश्वासिनीं तामुद्यतमसान्द्रसम्मदमदो रामां स चारीरमत् । तौ सान्द्रद्रुमकाननाद्विशुषिरप्रासादभूमीरत व्यायामस्मरहारिहासललनैः सान्द्रा भृशं चक्रतुः ||७८|| श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरु इति विनेयपण्डितेश श्रीपद्मसुन्दरविरचिते श्रीयदुसुन्दरनाम्नि महाकाव्ये कनकानिधुवनं नामैकादशः सर्गः ॥ ११॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206