Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 202
________________ Jain Education International यदुसुन्दर महाकाव्य स्वदनविरहात्क्षीरस्यन्ति स्वधैनुकतर्णका उषसि मणिमन्थग्रावभ्यस्तथा लवणस्यति । समज इह ते जात्याश्वानां कुमारकमण्डली कवल मवलम्ब्येयं हस्ते दधिस्यति संस्पृहम् ॥ ७३ ॥ | त्यज निजभुजाश्लिष्टामेनामपि स्त्रितरां वधूं भ भगवतोऽद्वैतानन्दात्मकस्य कथाप्रथाम् । घुसृणमसृणाः स्तोकान्मुक्ताः करप्रकरा खे गगनभुवनाभोगं लिम्पन्त्यमी जगतीपते ! ॥७४|| किमु किमुदिनी द्वेषात्सूर्य न पश्यति तत्परं किमपि विदितं शब्दग्रन्थे निमीलनकारणम् । कृतभणित योऽसूर्यपश्या भवेयुरसंशयं प्रथितमहतो राज्ञो दारा निगूढनिजेङ्गिताः ।। ७५ ।। यदयमदयश्चन्द्रश्चन्द्रातपैर्निरदीघरत् स्थलकमलिनीं भास्वत्कान्तां स्वभर्तृवियोगिनीम् । विकचकुमुदैस्तामप्येषाऽहसीत्कुमुदिन्यत— स्तरणिररुणो रोषाद्वैतं विजित्य विजृम्भते ॥७६॥ उद्यन्नुद्योतिताशः शितिमतमतमो दुर्दिनेरंभदाभः प्राचीमूलादुदञ्चत्करनिकरशतैः पाटयन्पाटलाभान् । दम्पत्योः श्लिष्टवक्षोद्वयमुकुलदलैः सार्धमम्भोजमुद्रां चक्रद्वन्द्वैः सहार्कः समघटयदयो कैरवाणां मुखानि ॥७७॥ श्यैनंपातां वितन्वन्दिनमुखमृगयुश्चण्डमार्तण्डबिम्ब- श्येनं प्राचारयत्स्वं स गगनगहने जातशङ्कः शशाङ्कः । । त्रातुं विद्मः सशंङ्ख जलधिमधिगतो ध्वान्त का काः प्रणेशुस्तारापारापतानां कुलमभजदथोड्डीनसण्डीनकृत्याम् ||७८ | For Private & Personal Use Only १८९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206