________________
Jain Education International
यदुसुन्दर महाकाव्य
स्वदनविरहात्क्षीरस्यन्ति स्वधैनुकतर्णका
उषसि मणिमन्थग्रावभ्यस्तथा लवणस्यति ।
समज इह ते जात्याश्वानां कुमारकमण्डली
कवल मवलम्ब्येयं हस्ते दधिस्यति संस्पृहम् ॥ ७३ ॥ |
त्यज निजभुजाश्लिष्टामेनामपि स्त्रितरां वधूं
भ भगवतोऽद्वैतानन्दात्मकस्य कथाप्रथाम् । घुसृणमसृणाः स्तोकान्मुक्ताः करप्रकरा खे
गगनभुवनाभोगं लिम्पन्त्यमी जगतीपते ! ॥७४||
किमु किमुदिनी द्वेषात्सूर्य न पश्यति तत्परं
किमपि विदितं शब्दग्रन्थे निमीलनकारणम् । कृतभणित योऽसूर्यपश्या भवेयुरसंशयं
प्रथितमहतो राज्ञो दारा निगूढनिजेङ्गिताः ।। ७५ ।।
यदयमदयश्चन्द्रश्चन्द्रातपैर्निरदीघरत्
स्थलकमलिनीं भास्वत्कान्तां स्वभर्तृवियोगिनीम् । विकचकुमुदैस्तामप्येषाऽहसीत्कुमुदिन्यत—
स्तरणिररुणो रोषाद्वैतं विजित्य विजृम्भते ॥७६॥
उद्यन्नुद्योतिताशः शितिमतमतमो दुर्दिनेरंभदाभः
प्राचीमूलादुदञ्चत्करनिकरशतैः पाटयन्पाटलाभान् । दम्पत्योः श्लिष्टवक्षोद्वयमुकुलदलैः सार्धमम्भोजमुद्रां
चक्रद्वन्द्वैः सहार्कः समघटयदयो कैरवाणां मुखानि ॥७७॥
श्यैनंपातां वितन्वन्दिनमुखमृगयुश्चण्डमार्तण्डबिम्ब-
श्येनं प्राचारयत्स्वं स गगनगहने जातशङ्कः शशाङ्कः । । त्रातुं विद्मः सशंङ्ख जलधिमधिगतो ध्वान्त का काः प्रणेशुस्तारापारापतानां कुलमभजदथोड्डीनसण्डीनकृत्याम् ||७८ |
For Private & Personal Use Only
१८९
www.jainelibrary.org