________________
૨૮૨
पद्मनसुन्दरसूरिविरचित
यः पौरंदरमुग्धसौधशिखरे माणिक्यरत्नप्रभा
प्रारभारान्वितशातकुम्भकलशभ्रान्ति विभर्ति स्फुरन् । भानुर्भानुविभूतिभूषिततनुबन्धूकबन्धुद्युतिः
प्राचीकुण्डलमण्डलं ननु लसत्येन्द्रे महे मन्महे ।।७।।
कोकानां मिथुनान्यशेषविरहं शीतांशवे सञ्ज्वरं
सम्प्रत्यर्कमणिभ्य एव विजहुः स्वानन्दसान्द्रोत्सवम् । सार्ध तैरथ संविभज्य च भिथः पद्माकरैर्वीक्ष्य तं
कर्कन्धूकुणशोणमम्बरमणि व्यातेनिरे मङ्गलम् ।।८।।
अरुणकिरणैः कालिमन्या मधुव्रतमण्डली
किमरुणमणेः शोभारम्भं बभार विसारिभिः । दरविकसितं पद्मा पद्माकर कुमुदान्मुदा
विनिमयमयं मन्दं मन्दं निजासनमासदत् ।।८१।।
विश्वस्मिन्नपि कामकेलिजलधेः पारीणमेकं स्तुमः
चक्रद्वन्द्वमिदं वियुज्य सततं सम्भुक्तिमन्विच्छति । प्रेमारोचकरोगरुग्णवपुषा चण्डीश्वरेणानिशं
. किं नाकारि रसायनायितगरग्रासोरुविस्फूर्तये ।।८२।।
निद्राणामरविन्दिनीं मधुकराः प्रौद्बोध्य सांराविणैः
सानन्दं मकरन्दमेव निपपुङ्गीसखाः सम्प्रति । स्वादुकारमथो मधूकमधुरं वध्वा निपीयाधरं ।
__ श्येनी पद्मवनी क्षणाद्रविकरैर्गुञ्जानिकुञायिता ॥८३।।
सौर: कुङ्कुम पङ्कसङ्करकरैराश्लिष्यतेऽभ्रंकषा
सौधश्रेणिरसौ गवाक्षविवरालीनाङ्गुलित्वं गतः । दीप्तिभर्तृवियोगिनी शिखिशिखामाविश्य याऽस्तं गतं
सा स्वःस्था पतिमुज्जहार मिहिरं साध्वी किमुर्वीतलात् ।।८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org