________________
१८०
Jain Education International
पद्मसुन्दरसूरिविरचित
अशिशिरको रोषाददोषां जघान निशापतौ
गलितहास ध्वस्ते निस्तेजसि सङ्ग्रहे । शितितमतमः केशग्राहं ननूदयभूधरे
तदरुणमसृग्वाहं संवावहीति हरेर्हरित् ||६७।।
रजनिरजनिक्षिीणा तारा विनेशुरथ क्षणा
दपि कुमुदिनी निद्रामुद्रां नितान्तमुपेयुषी । द्रुतमपि नयत्सान्द्रश्चन्द्रः प्रियाविरहाद्द्भुत -
स्तदयमदयोऽथाश्मः साक्षात् ध्रुवं प्रमिमीमहे ॥ ६८॥
मिहिरहरिणा ध्वान्तोदामद्विपः स्वकरोत्करप्रखरनखरैर्भिन्नस्तत्कुम्भजैर्ननु शुक्तिजैः । नवकुशशिखा सूचीप्रोतैस्तुषारकणैरियं
सृजति निजकं हारं सन्ध्या नवोढवधूरिव ॥ ६९ ॥
करशरभरक्षेपाद्रात्रौ तमः सहयुध्वना
रजनिपतिना खेदक्षीणौजसोषसि मन्दितम् । उषितममुना स्वांशभ्रंशाद् गिरीशजटाच्छा
त्रिदशतटिनीतीरच्छायातरुव्यतिषञ्जनम् ॥ ७० ॥
—
उदयतितरां धर्मज्योतिः कलानिधिरस्ततां
व्रजति कमलान्युज्जृम्भन्ते निमीलति कैरवम् । प्रियमतिरसात्कोकी कोकं वृषस्यति तामस
द्विजकुलमगाद्बाधां नानाविधा हि विधोर्विधाः ॥ ७१ ॥
कुमुदवनताबन्धुः सिन्धोः सुतोऽथ कलानिधिविघटिततमो दस्युस्तोमस्तमीदयितापतिः । भुवनजनता नेत्रानन्दी द्विजोऽत्रिज एव यो
हतविधिहतः सोऽस्तं यातोऽमृतद्युतिरद्युतिः ॥७२॥
For Private & Personal Use Only
www.jainelibrary.org