________________
यदुसुन्दरमहाकाव्य
धुमणिकिरणस्फूर्तावुन्निद्रतां नयनद्वयी
नलिनवनतास्फारामिन्दिदिरैर्दधती तुलाम् ।। पियसहचरीनेत्रापातैर्निपीतरसा रसा
द्भवतु भवतः शय्योत्थायं प्रमोदविभूतये । ६१॥
शतमखशचीद्वन्द्विकान्तव्यवायविवर्तन
___च्युतसुमनसस्तारास्तारा नभस्तलिमे बभुः । अशकलशशी गण्डाभोगोपबर्ह मिहार्हति
प्रसृमरकरस्तोमक्षौमोत्तरच्छदतां दधत् ।।६२।।
शिशिरकिरणे रन्तुं याते जलेशदिगङ्गनां
व्यपगतवसुः सोऽयं चक्रेऽनयाऽपि कलानिधिः । इति हरिहरिददर्श दर्श' जहास विकासिनी
परिभवपदं प्रायोऽस्वीयः परिग्रहसमहः ॥६३॥
तरणितरुणः प्रातःसन्ध्यां विवोढुमिवारुण
__ प्रतिसरकरः संबिभ्राणां सुमङ्गलमण्डनम् । परिसरलसज्ज्योतिर्लाजाहुतिं दधतीमिमा
मरुणिमबृहद्भानौ सानौ किलोदयभूभृतः ॥६४।।
विबुधमिथुनानङ्गक्रीडात्रुटच्छतयष्टिक
प्रेकरविकिरन्मुक्ता मुक्ता जवादुडुसंहतीः । इह बहुकरैः सम्माष्टिं स्म ध्रुवं गगनाङ्गणे
___ दशशतकरः प्रातः प्रीतः शतक्रतुनोदितः ।।६।।
हरिहयपुरस्तारादीपाक्षतैश्च तमोरुहा
शवलकवलैः मृष्टातिथ्यो घनाश्रयसज्जनः । वितरित शशिग्रासं भूयस्तरामुदसकतुजं
प्रसरविसरत्पाद्यं ज्योत्स्नाजलं परिशीलयन् ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org