________________
१०
पद्मसुन्दरसरिविरचित
अथ निगदति प्रेयस्येवं प्रियप्रमदा मुदा
नयनमनयन्निद्रामुद्रावशं भृशजागरात् । कृतदृढपरीरम्भारम्भौ मिथो मिलिताधरौ
द्रवदभिनवामन्दानन्दाविमौ च निदद्रतुः ।।५५।।
प्रियसहचरीपीनोरोजस्फुरत्तरपत्रता
स्वकरिमकरीमुद्रीभूतस्तनान्तरमण्डलः । विभुरिह बभौ पर्यकाङ्के मिथः श्वसनानिल
व्यतिकरमिलद्रूपं द्वन्द्वं सुखं तदसू षुपत् ।।५६।।
निशि शशिरुचा यान्त्यामान्त्यां दशामथ तारका
स्तरलतरलच्छायामायामिता व्यगलन्निव । हरिकरहरित्रासादासादितश्चरमां दिशं
तिमिरकरिराट् कामं कामं मरुत्पथकाननम् ॥५७।।
अथ कथमपि प्रेक्षाचक्षुर्विवक्षितविग्रहाः
कुशलकुशलारब्धा दृब्धा गुणैरिव मालिकाः । स्फुटमतितरामेते वैतालिका जगदुगिरो
यदुकुलपतेर्जागर्यायै प्रचारपुरस्सराः ॥५८।।
जय जय जगज्जैत्रक्षात्रान्वयाम्बरचन्द्रमः
स्वरसविसरत्कीर्तिज्योत्स्नाप्रसादितविष्टप । सुमुखसुषमा भग्ना मग्ना कलङ्कनिषद्वरे
मलिनमलिनच्छायां त्वत्तो दधौ विधुमण्डली ॥५९।।
सुररिपुरिपोर्वक्षो लूताऽऽतपत्रितकौस्तुभं
सितबिसलतातन्तुच्छन्नं स्वपक्कजमन्दिरम् । विधुमथ जही मत्वा लक्ष्मीः शिलीन्ध्रमिवासनं
तव यदुपते ! स्थाने स्थेम्णा कराम्बुजमाश्रयत् ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org