________________
यदुसुन्दरमहाकाव्य
१७७
अविरततमः पौरोभाग्य समीक्ष्य सुधाकर
तदिति सुदति ! ग्रासत्रासात्तवाप सुधाधरम् । अरुणिमपुरस्कारादारात्सितत्वमपहनुते
सुमुखसुषमास्पर्धागर्दी विधुः किमु दुर्विधः ॥४९।।
विकिरति करैः पीयूषांशुःसुधा स्वसुधा विधां
__स्वदधरसुधां मुग्धे ! मुग्धां विलोक्य मुहुर्मुहुः । हृदयविलसन्मुक्ताहारस्फुरत्तरलद्युति
प्रतिकृतिमिषात्सेवाहेवाकितामिव दर्शयन् ॥५०॥
शशधरसुधासारस्फारस्फुरज्जलविज्जले
हरिहयखुराकारास्तारा न भान्ति नभोगणे । तव मुखतुलां भूयो भूयो विधाय विधिविधुं ।
व्यघटयदमुं दर्श दर्श गुणैरनुकल्पितम् ॥५१॥
मनसिजसितछत्रं रत्याः स्फुरत्करकन्दुकं
त्रिदशतटिनीफुल्लाम्भोजं निशाहसपुञ्जितम् । शुचितरसुधाकुम्भं काष्ठाऽङ्गनाऽऽननदर्पणं
गगनतिलकं सान्द्र चन्द्रं निभालय भामिनि ॥५२॥
सुतनु ! वितनु स्मेरां दृष्टिं त्वदाननपङ्कजा
__ बहुतृणमसावेणश्चन्द्रं मरीचिकया मृशन् । तत इह विशश्रामाश्रान्तं सुधामरुमण्डली
तरलितमनाः प्रायोऽऽहार्यः पशुभ्रमविभ्रमः ॥५३।।
विधिरथ सुधासारं मुग्धे ! विधाय तवाननं
स्मितविलसितज्योत्स्नाजालप्रसादसदोदितम् । स्वकरकमलद्वैतप्रक्षालनप्रगलत्सुधाऽs
विलजलमयं चन्द्रं मन्ये चकार निकारतः ।।५४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org