________________
१७६
पद्मसुन्दरसरिविरचित
प्रथयति करानादित्सुस्ते मृगाक्षि ! मुखप्रभा
विधुरथ दिवा फुल्लाम्भोजान्करानपि पद्मिनी । सुषमसुषमेऽप्येकत्रार्थ द्वयोः किल लुब्धयो
रिति कमलिनीतारापत्योस्तदास सपत्नता ।।४३।।
न भगणपरीवारो नामुं महौषधयः स्त्रियः
किमपि च जरामृत्युच्छेत्री सुधा न सुधाकरम् । द्विजपरिषदामाशी/जी न वा सरिताम्पतिः
क्षयसमयतस्त्रातुं कोऽपि प्रभूष्णुरभुन्नहि ।।४४ ।।
अयमथ तमिस्रायामेकादशापि कला निजा
विसृजति शशी रुद्रेभ्योऽथ स्मराय च पञ्च ताः । शरधिविधये कृत्वा भूतिं स्वकामिति पात्रसा
न्मुहुरलमलञ्चके स्वाभिः कलाभिरिलातलम् ।।४५।।
शशधरसुधाकुण्डादकस्फुरच्चषकक्षिपां
नभसि भगणो वध्वापानोऽमृतस्य सपीतये । कलयतितरामच्छातुच्छस्फुटस्फटिकोपल
प्रघटितदले शके पङ्केरुहाक्षि ! निरीक्षसे ॥४६॥
किल कमलभूर्वक्त्राम्भोजं त्वदीयमिदं यतो
__नयननलिनद्वन्द्वाधानात्प्रतीक्ष्यमपूजयत् । तदिति शशिनो म्लानिच्छायामषीकलुषं मुखं
नहि शशमृगाद्यकाशङ्कालवः प्रमिमीमहे ।।४७।।
अयि ! कुमुदिनीभर्ता स्थाने चकार करग्रह
सरसिजकराग्लेषादेषा जहास कुमुदती । नवधवपरीरम्भामोदप्रमोदभरदवत्
तरमधुरसस्वेदार्दाि तनूमनुविभ्रती ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org