________________
यदुसुन्दरमहाकाव्य
१७५
रजनिरजकी चन्द्रागाधहदामलचन्द्रिकाप्रसरविर
यत्सकलाम्बरम् । तिमिरनिकरच्छायानीलीमलीमसमातत--
स्मरहरशिरःसिन्धूतानप्रवाहसहोदरः ॥३७।।
कुमुदनिकुरम्बाणामारूढयोगिपदस्पृशां
किल विदधतामन्तर्मोदं जडेषु विरक्तताम् । अयि ! सुरवधूर्योत्स्नी ताराकटाक्षशशिस्मितै
श्चिरपरिचिता ज्योत्स्नाकल्पैर्बभञ्ज समाधिताम् ।।३८।।
ननु सहगतः शुभ्राङ्गत्वं बिभर्ति तमिस्रया
शितितनुविधामेप ज्योत्स्नी निशाऽथ निशाकरः । असितसितयोः शोभाभूत्यै कृशोदरि ! पक्षयो--
गैदति हि बहिर्बुद्धिलॊकस्तमऋविटक्कितम् ।।३९।।
यदि स भगणानेकीकृत्य प्रगल्भतया विधि
घटयति विधुं नव्यं तद्व्यञ्जयत्यकलकितम् । अधरमधुरास्वादं साक्षात्त्वदास्यसुधाकरं
कथमिव तुलां धत्तां चन्द्रः कलङ्कविडम्बितः ।।४।।
विधिरिह गुणानादात्सौधाकरादपि मण्डला
न्मुखविधुविधौ यत्ते दोषाकरोऽयमभूत्ततः । अनुशशिमृगात्सारं नीत्वा त्वदक्षियुगं व्यधात्
स्थित इति गताक्षोऽसौ तस्मिन्निरस्य भवन्मुखम् ।।४१।।
मुखमिति सुधासारं यत्ते विधिनिरमात्ततः
खलु खलकृतं पिण्डं तस्यावशिष्टमखण्डितम् । स किल सकले लोके ख्यातः शशाङ्क इति स्फुट
कलय सकलं विम्बं पङ्कच्छविच्छलपिच्छिलम् ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org