________________
पद्मसुन्दरसूरिविरचित
हरगलगरवालाशान्त्यै कलामपि षोडशी
व्यतरदनिशं पीयूषान्धः सुपर्वगणाय यः । जगति जनताजीवजीवेक्षणाय घृणिच्छटा:
सुरतरुतुलां कैः कैरंशैनिजैन विधुव्यंधात् ।।३१।।
जठरनिहितस्या कन्यकोर्वधाय नु सिंहिका
तनय उदित भूयो भूयो जघास विधोर्वपुः । अपि निजतनुग्रासान्नासावदान्निजमङ्कगं
प्रमुदितहदा तेनेत्येव व्यमुच्यत स ध्रुवम् ।।३२।।
कुमुदवनजाहासद्योतिद्युतिः किल कौमुदी
न यदि शशिनि प्रत्यक्ष वा दिवा किमु नोदिता । ननु नयनयोः सध्रीचीयं चकोरपतत्त्रिणा
मयि जलनिधेर्धकुंशस्याथ ताण्डविकाऽपि का ।।३३।।
पितृगुणतुलां धत्ते पुत्रः सतीति जनश्रुतिः
खलु जलनिधेवृद्धिहासौ सितासितपक्षयोः । स्वयमनुपदं वोढा वंश्यः स एष सुधाकरो
धुरि किल कलापारीणानां कलानिधिरित्यभूत् ।।३४॥
क्वचन विशदज्योत्स्नाच्छाया क्वचित्प्रविज़म्भते
जनकजनितं जन्ये प्रायो लसत्युपलक्षणम् । इह धवलिमा मुग्धा दुग्धाधिकस्य सुधानिधे--
यदिति सितिताकिरित्वं कलङ्कजमङ्कनम् ।।३५॥
विधुरिति सुधैवासीदाप्यायनाय सुधाभुजां
___ मखमुखहविर्दानादुन्नीयतेऽच्छतरच्छविः । इह हि कियदप्यक्के पङ्क शशाङ्कमुखि ! ध्रुवं
विलसतितरां साक्षात्तत्प्रोक्षणक्षणजं हृदि ।।३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org