________________
यसुन्दरमहाकाव्य
दिनमणिमणि सायाह्नस्तु प्रतारणतापटुः
सुरुचिरुचिरं क्रीत्वा व्योम्नो व्यतीतरदेष यम् । कृतककनकं चान्द्रं बिग्बं जहाति सहा स्वयं
स्फुटमरुणतां पाण्डुच्छायः क्रमाद्रजतीभवन् ।।२५।।
प्रथममभवन्सायच्छायासुकुङ्कुमपङ्किला
स्तदनु च तमःकस्तूरीभिर्विभूषितविग्रहाः । सुदति ! विचरच्चञ्चच्चन्द्रद्युतिव्यतिचुम्बिते
रिव शुशुभिरे काष्ठावध्वश्चिता हरिचन्दनैः ।।२६।।
विधुमणिविधादुग्धे मुग्धे ! विवर्द्धयितुं विधु
जलनिधिमपः कोकीशोकाकुलेक्षणमण्डलीः । निजकरसुधाऽमन्दस्यन्दप्रवाहमरहयत्
फलति हि सतामृद्भिः पूज्यक्रमापचितिक्षमा ॥२७॥
तपनतनयापूराकारे विहायसि चन्द्रिका
त्रिदशतटिनीवाहव्यूह। व्यगाहत तत्र च । सुचरितपदे वेणीसङ्गे निमज्ज्य दिवंगताः
किल सुकृतिनस्ताराकारा धुवं विनिमीलिताः ।।२८।।
तिमिरगरलास्वादादेता निमीलनतामिता
__ निजकरसुधासेकैराशावधूः समजीजिवत् । विधुरथ नभःपारावारेऽन्तरीपनिभो बभौ
प्रसरविसरज्ज्योत्स्नाजालस्फुरज्जलपूरिते ॥२९।।
सुरपथसरःपूरे ज्योतिर्वलज्जलसम्भृते
किमपि मुकुलैस्तारैः श्यामालताश्रियमावहत् । नलिननयने ! शके पङकेरुहश्रमविभ्रम
शशधर इहाधत्ते हासप्रकाशनसौरभः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org