________________
१७२
पद्मसुन्दरसूरिविरचित
तम इव निजारातौ घने पदार्थगणस्य किं
प्रतिपदचरीश्छायाचारीः प्रचारगवेषणे । निखिलभुवने मन्ये प्रावेशयत्तदिति प्रभौ
गदति झगिति प्राची किर्मीरितांशुभिराबभौ ॥१९।।
कुमुदवदने ! स्वभ्रातृव्यप्रशस्तिमसासहिः
किमु कुमुदिनीकान्तः प्राचीमुखादुदगादिव । तदयमदयं शोणः क्रोधादिति स्वकरोत्करैः
किल विघटयन्विश्वद्रीची तमोरिपुसन्ततिम् ।।२०।।
कुचगिरितटीदुर्गे मानःस्फुटे मयि मानिनी
जनहृदि किमद्यापि म्थेयान्क्रुधेत्यरुणो विधुः । विकचवदनाभृङ्गश्रेणीलसत्करवालिकां
__ प्रसृमरकरः कर्षत्युच्चैः सुकैरवकोशतः ।।२१।।
उदयशिखरिप्रस्थोच्छायच्छलप्रतिसीरया
व्यवहिततनुश्चन्द्रश्चञ्चच्चकोरदृशोरपि । विकिरति सुधाधारासारानिव स्वकरैरयं
कुमुदविशदस्मेरा दृष्टिं प्रसादय सादरम् ॥२२॥
हरिहयहरित्कुम्भीन्द्रेण स्वसोदरताधिया
शिरसि विधृतः सिन्दूरेणारुणो विधुरुद्गतः । किमु सुरववधूवृन्दैबिग्वं तदीयमचुम्बि तैः
___ स्ववदनतुलारागाद्यावद्रवारुणिताधरैः ॥२३॥
निविडरजनीपीतं व्योम क्षणाक्षणदाकर
द्युतिभरसुधाव्यासङ्गेनारुणत्वमवाप यत् । स्वकरकठिनीघर्षेः सम्मार्जयन्नमृतद्यती
रजनिरचितां ध्वान्तस्योडुप्रशस्तिमदीदिपत् ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org