________________
यदुसुन्दरमहाकाव्य
दिवसकलितालित्वव्यापादनादतिरंहसा
दिशि दिशि तमःपारावारस्त्रिविष्टपमानशे । इह हि मलिनाः प्रायः सीमक्रमव्यतिलङ्घना
न्मलिनमलिनाचाराः स्वैरं चरन्ति विशृङ्खलाः ॥१३॥
प्रसरतितरां प्राचीमूलारिकमभ्रमुवल्लभ
स्फुटकटगलद्दानोद्दामप्रवाहभरस्तमः । दशशतकरस्तब्धः किं वा रवेः परिभावतो
गगनभवनाभोगः सद्यः पपात भुवस्तले ॥१४॥
उपरि लसति न्युजे शालाजिरप्रतिमेऽम्बरे
दिनमणिदशाकर्षज्वालावलिभ्रमिभिधृता ।। विगलति गुरुभूय ध्वान्तं तदञ्जनपुञ्जजा
प्रसृमरतरा व्यालुम्पन्ती जगज्जनितार्थताम् ।।१५।।
सुतनु ! जनतागावः पर्यायताव्यवधाभिधाः
__ स्वयमधिकृतैर्गासाहौरनायिषतामुना । तदवतमसान्नांध्यं गोस्वामिना सह नेति चेद् ।
नयनविषयं कस्माल्लोको घटादि न चेक्षते ॥१६॥
अयि ! परिचितास्तारैस्तारैः प्रसूनशरेषु नि--
गमदनिभैवन्ति दिग्धाः स्फुरन्त्यसिताम्बराः । निशि शशिवियुक्तायां मा भूमयि त्वमसूयिनी
किमपि हि समन्दाक्षा मन्द दिशोऽप्यभिसारिकाः ।।१७।।
तमसि तदलं द्रव्यत्वादिव्यवस्थितिसन्धया
मतमतितरामौलूकं तत्परीक्षणताक्षमम् । अयि ! किल कुलं नोलूकानां प्रकाशयति स्फुटं
जगति सकलं वस्तुस्तोमं तमोनिचितेऽपि हि ।।१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org