________________
पद्मसुन्दरसरिविरचित
नय नयनयोः पद्यां सन्ध्यां नरीनृतती नटी ..
मरुणसिचयाकल्पां रङ्गाङ्गणे सुरवर्त्मनि । अयि परिलसत्ताराहारावलीरजनीकर--
स्तरलिततरां तस्या भूषा विलोलविलोचने ।।७।।
निकषमिषतां बिभ्रत्यस्ताचलस्तु शिलातले
द्रुतकनक पिण्ड क्रीत्वा विकर्तनमण्डलम् । जलनिधिरये दत्ते साक्षात्परीक्ष्य पितृप्रसू
हुतभुजि नभोहस्ते तारावराटककोटितम् ।।८।।
इदमयि ! वियत्स्वर्गङ्गायाः प्रवाहपरम्परा
विलसतितरां यस्या यादास्युडूनि चरन्ति हि । मकरमिथुनग्राहाः सध्यंकुलीर इतोऽप्सरः
सवनधुवनत्रासादासादितानि निमग्नताम् ।।९।।
अजनि रजनी योगिन्येषा सुसिद्धिमती ध्रुवं
कमनमजिजीवद्या पद्माकर सममूमुह्त् । जगदपि खपुष्पीयत्ताराऽनुकारि विभूतिभि
निरधिकरणं दृष्टादृष्टाभिराभिरदीदृशत् ॥१०।।
प्रणयिनि ! वियद्गङ्गारङ्गद्रथाजनितम्बिनी---
कुलविरहजाश्रूणां मन्ये गलज्जलबि. दवः वियति विचरन्तीमास्ताराः स्फुरत्तरमौक्तिक
__ भ्रमभरभृतो धारास्तासामनुक्रमसङ्कमाः ।।११।।
सुरमिथुनताव्यामोहाय प्रसूनशरस्य किं
प्रहितविशिखाः संलक्ष्यन्ते विहायसि तारकाः । प्रतिफलतु वा पञ्चेपूक्तिः प्रपञ्चनिरुक्तिका ।
श्रुतपथि यथारूढा पञ्चाननध्वनितार्थता ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org