________________
॥ द्वादशः सर्गः ॥ रणरणकतः सायं सायंतनीं सुषमां यदुः
__ प्रसृमरतरां प्रक्षाचक्षुर्निरीक्ष्य स चक्षुषा । करिपरिलसत्सिन्दूराभां तभिरविमिश्रणा
. दिव नववधूं नीत्वोपालोकयत्सविधं च ताम् ॥१॥
अरुणतरुणः स्फारस्फारैः करैरनुरागवान्
वरुणककुभं कान्ते ! कान्तामुपाश्लिषदलथः । नवधवपरीरम्भारम्भादिवोत्तमकुङ्कुम
द्रवनवरसैदिग्धा मुग्धा विभात्यपरावधूः ।।२।।
इह हि मिहिरः पायं पायं भरादिव वारुणी
स्वरुचिविभवं दायं दायं कृशानुकृशाश्विने । प्रथयतितरां तैलम्पातां . तमिस्रकणान्किरन्
स्खलितललितक्रीडाब्रीडागतं दधदम्बरे ।।३।।
तरणितरुणश्लेषे सैषा विशेषलसत्तम
श्चिकुरनिकरेऽमुष्मिन्नायल्लकं किल लोहितः । द्युतिपरिकरैः प्रत्यक्काष्ठा नवोढवधूरहो
सुदति ! दधती शोभारम्भं बभार निभालय ॥४॥
दशशतकरोऽप्युच्चैयाधामतोद्धतधामभि
र्धवलितधरो ध्वान्तध्वंसी प्रतापपरंतपः । अपि विधिविधौ वामे ! वामेतरव्यवसायधी
रजनि रजनिप्रारम्भे हा रविः स गलच्छविः ॥५॥ दिवसकरिणं सन्ध्या सिंही जघान सपद्मकं
प्रखरनखरैरस्तक्ष्माभृच्छिरस्युदगादियम् । दिवि भृशमसृग्धारासारप्रवाहपरम्परा
विदुषि ! विदुजास्ताराकराः स्फुरन्त्यथ शुक्तिजाः ॥६॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org