________________
१६८
Jain Education International
पद्मसुन्दरसूरिविरचित
साङ्गरागकलिताङ्गवासना
भूषणांशुकचयैः पृथग्विधैः ।
नित्यमेत्यथ नवोढसुन्दरी
विभ्रमं स्म दधती हृदीशितुः ॥७३॥
जातुचित्प्रणयिनि प्रियार्थनां
कुर्वति व्यधित सा स्ववामताम् । कोपरोपिणि च सानुकूलता
मातदीहितमथो व्युपारमत् ॥७४॥
-
तं च कोकनदचुम्बिषट्पद
श्रीधरं तदधर विलोक्य सा । सिष्मिये स्मितनिदान पृच्छक
प्रत्युवाच मुकुरार्पणात्करे ||७५ || यस्तदीयमणिमण्डनैः क्वचित्
सन्तुतोष विषसाद स क्वचित् । वल्लभः स्फुटतदङ्गरोचिषां
सन्दिदृक्षुरपिधाविधायिभिः ॥७६॥
तत्त्वदङ्ग परिरम्भचुम्बना
कामिनीं स चकमेऽथ कामुको
स्वादवीक्षणरतोत्सवद्रवैः ।
नासकृत्क्वचिदवाप तर्पणम् ॥७७ ||
इत्थं निर्भरचा टुगर्भवचनैराश्वास्य विश्वासिनीं
तामुद्यतमसान्द्रसम्मदमदो रामां स चारीरमत् । तौ सान्द्रद्रुमकाननाद्विशुषिरप्रासादभूमीरत
व्यायामस्मरहारिहासललनैः सान्द्रा भृशं चक्रतुः ||७८||
श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरु
इति विनेयपण्डितेश श्रीपद्मसुन्दरविरचिते श्रीयदुसुन्दरनाम्नि महाकाव्ये कनकानिधुवनं नामैकादशः सर्गः ॥ ११॥
For Private & Personal Use Only
www.jainelibrary.org