________________
यदुसुन्दरमहाकाव्य
१६७
घूर्णमाननयनं श्लथालकं
हीतमुत्पुलकमस्तयावकम् । तत्प्रियामुखमुदीक्ष्य संलपन्
सान्द्रशर्मजलधौ ममज्ज सः ॥६७॥
त्वत्कटाक्षविकटायितक्षणो
मत्सुधारसनिमज्जनक्षणः । यत्प्रसादविशदोक्तिताण्डवं
चण्डि ! मे विजयडिण्डिमायितम् ।।६८॥
यस्त्वदीयपरिरम्भसम्भ्रमः
सार्वभौमपदलम्भन मम । यस्त्वदङ्गरतरङ्गसङ्गमो
ब्रह्मशर्मपदसम्मदोदयः ॥६९॥
या त्वया मयि भृशं ममत्वधी
धीयते सुदति ! सा मया त्वयि । नेति चेन्मम शिरःशिखामणिः
पादयोः स पतयालुरस्तु ते ॥७॥
इत्युदीर्य पतितेऽथ पादयोः
प्रेयसि स्वपदपङ्कजं प्रिया । सजुगोप पतिमस्तकं मुदा
हस्तयोरधृत चुम्बितालिकम् ॥७१ ।।
तं कृतार्थयति सा स्म सस्मर
स्मेरसान्द्रकिलिकिञ्चितद्रवैः । तत्प्रियप्रणयमेव जातुचित्
सान्तरायमकृतान्तरान्तरा ||७२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org