________________
१६६
Jain Education International
पद्मसुन्दरसूरिविरचित
सा मुहुर्मुहुरुदीक्ष्य भर्तृजै
रङ्कितं नखपदैः कुचद्वयम् । सस्मितं च यदुमप्यसूयया
कुञ्चितकुटिभेव चक्रुषी ॥ ६१ ॥
आकलय्य स च तां तथाऽब्रवीत् क्षन्तुमर्हसि न मन्तुमद्य मे । कोपलोपनकृतेऽथ कोपने !
त्वन्नखव्रणितमस्तु मे वपुः ।। ६२ ।।
सुभ्रु ! किं न घटते पयोधरे
शक्रचापमिव मन्नखाङ्कनम् । तन्मयेति विगणय्य निर्ममे
कोप एष यदि तेऽस्त्वनुग्रहः ॥६३॥
त्वद्रते विदुषि ! खण्डशर्करा -
माधुरीपरिणते स्पृहाकरम् ।
तन्मिथो नखविलेखनं कटु -
स्वादु किं न मरिचावचूर्णनम् ||६४||
किन्तु मन्तुकर एष मे करः
किं न ते व्यजनवाहनाकरः । किङ्करः वलमभरालसेक्षणे !
स्वापराधशमनाय नायकः ||६५॥
व्रीडनीडशरणं तवोचितं
साध्वि ! साधु मम नव्यसङ्गमे । सोऽहमेव निरपत्रपो मुहुः
प्रार्थये त्वदनुषङ्गनर्म यत् ||६६ ||
For Private & Personal Use Only
www.jainelibrary.org