________________
यदुसुन्दरमहाकाव्य
१६५
तां वुभुक्षुरथ सम्भुजिक्रिया
माचचार पटुचाटुचञ्चुरः । आविरास मणितोपसङ्कुल
प्रक्वणत्कनककिङ्किणीरवः ॥५५॥
स्विद्यति स्म विधुबिम्बमम्बर
तारकाविलुलितं व्यभासत । सुप्तसूननलिनीव मुद्रिते
न्दीवरेव सरसी रतिस्तयोः ॥५६।।
विद्रुमस्यललितैर्नु विद्रुतं
मन्दितं मलयमन्दमारुतैः । कोकिलस्य किल काकलीरवै
मुद्रितं समभवद्रतं हि तत् ॥५७।।
सा प्रबुद्धतरबुद्धिवैभवा
कामकेलि कलहटत्तरम् । तारहारमपि वेद नो चिरात्
स्वेदबिन्दुपदतुन्दिले हृदि ।।५८॥
सुन्दरा अपि सुवृत्तशालिनः
शुक्तिजाः स्वगुणवैभवच्युताः। सुभ्रु ! वो हृदि न शेकुरासितुं
तद्गुणो हि महिमानमर्हति ॥५९।।
शौरिदत्तनखरक्षताकितं
__ तत्तदूरुयुगलं प्रशस्तियुक् । स्तम्भयुग्ममिव हैममद्युत
द्रगोत्रज नु रतिकामयोरिदम् ॥६०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org