________________
पद्मसुन्दरसूरिविरचित
तां सिसान्त्वयिषति स्म सान्त्वनैः
स प्रियः प्रियवचो निमन्त्रणैः । कामकामपरिरम्भलम्भने
रानयन्निजवश वशंवदः ॥४९॥
हीपिधानपिहितेन कुञ्चित
स्वौजसा सितमथ स्मराग्निना । तेन रुच्यचटु वाग्विमुद्रणो
न्मुद्रितेन झगिति प्रजज्वले ॥५०॥
मन्मथतशतेष्वधीतिना
सा क्रमेण यदुनाऽन्वनीयत । स्वं धनुः स्मरधनुर्धरः प्रिया
वीडया सह मनागनामयत् ॥५१॥
निस्तलत्वमयि ते स्तनद्वये
हारशुक्तिजकणेऽथवाऽधिकम् । पश्य भीरु ! करवै परीक्षणं
तन्निगद्य कुचमार्जनं व्यधात् ॥५२॥
कुङ्कुमणमदचर्चिते कुच
द्वन्द्वशम्भुशिरसि न्यधापयत् । पाणिशूकशकलेन्दुरेखितं
भूष्य औपयिकमेव भूषणम् ॥५३॥ सद्वयोरथ मिथोऽभवद्भुज
द्वन्द्वगाढपरिरम्भविभ्रमः । न्यग्बभूव गिरिजागिरीशयोः
पूगनागलतयोविचेष्टितम् ।।५४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org