________________
यदुसुन्दरमहाकाव्य
१६३
क्षीय एष वदनासवात्तव
स्वावदंशदशनं समीहते । संलपन्निति ददंश चाधरं
मत्तमत्त इव विभ्रमं दधत् ।।४३।।
त्वन्मुखस्य भृतिभुक्पुनर्जनो
भृत्यकृत्यकरणाय कल्पते । तत्त्वदूरुभुजवत्समर्दनं
सम्प्रतीति करवाणि वाणिनि ॥४४॥
स्थातुमेनमनिरीक्ष्य नाददात्
सुभ्रुवो रतिपतिनं च पा । वीक्षितुं वरयितर्यनारतं
तदृशौ विदधतुर्गतागतम् ।।४५।।
सा तदोन्मिषितमेव सम्मदाद्
बीडया निमिषितं च बिभ्रती । सङ्कुचद्विकचसूनशालिनी
सालिनीव नलिनी विविद्यते ।।४६।।
स्वालिभिः कथमिवोपवेशिता
सिमिये स्मितवति प्रभौ न सा । जल्पति स्म न च जल्पति स्मयात्
सा च साचिवदना स चुम्बति ।।४७।।
शायिताऽथ शयने विनियंती
साऽऽलिभिः सहचरी सहान्वगात् । नो सनीडमभजत्सभाजिता
पर्यभावि स तयाऽन्वभावि च ।।४८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org