________________
१६२
Jain Education International
पद्मसुन्दर स्ररिविरचित
मानभङ्गुरतरभ्रुवा स्मरो
धन्वभृद्वरतनोश्वलद् दृशा ।
काण्डवानथ च हुङ्कृतैरहो
बाणराणिभिरुपासनं व्यधात् ||३७||
प्राक्चुचुम्ब तदलीकमानतं
भीरु ! चारुवदनं विमुद्रय ।
इत्युदीर्य निजपाणिनोद्धृतं
तन्मुखं स दरशङ्कितः पपौ ||३८||
शातकुम्भनिभकुम्भसम्भृतिः
कण्ठदाम ननु काममर्हति । इत्यनूध निजकण्ठकन्दली
हारमेतदुरसि प्रभुर्न्यधात् ।। ३९ ।।
नीविचुम्बि करकुमलं यदोः
साऽरुणत्स्वभुजवल्लिवेल्लनैः ।
त्वत्सखीजन इवाम्यहं ततः
स्वाङ्गमङ्ग किमुतापलप्यते ||४०||
स ब्रुवन्निति तदाच्छिनतदा
नीविबन्धनमुद्रीत सम्मदः ।
तावकोरुकदलीपरिष्टितां
मत्करो नु विदधातु पातुकः || ४१ ॥
बाधितोऽस्मि सुतरामुदन्यया
तत्पिपासुरधरामृतं तव ।
उन्नमय्य मुखमित्यवेक्ष्य स
स्वादु तन्मुखसुधाविधामधात् ॥४२॥
For Private & Personal Use Only
www.jainelibrary.org