________________
यदुसुन्दरमहाकाव्य
सद्विपाकफलितानि तद्विदां
लेषहेतुरिव नाप्य तद्विदाम् । रिलष्यते हि हविषा यथा करः
किं रसज्ञरसनाऽपि तावता ।।३१।।
स्वस्वकालपरिणामसम्भवा
कर्मजा किल विपाकवेदना । ब्रह्मशर्मदधतो नु तद्विदो
भोक्तुरप्यथ रुणद्धि नो मनः ।।३२।।
वस्तुनोरिह निमज्जतोभिदा
स्त्येककेऽपि किल पङ्कसङ्करे । किं कनत्कनककिङ्किणी मृदि
प्रावृतेव विरजीभवेत्कुशी ॥३३॥
साऽथ चाटुवचनैरुपाहृता
शौरिणा निजभुजाकपालिभिः । कोपनेव न च तदिदशं तदा
पश्यति स्म शयने पराङ्मुखी ।।३४।।
संकथाऽर्थमुदिता न चाब्रवीद्
भर्तृचाटुशतहारिहूतिभिः । पाणिकोकन दचुम्बितोऽथ सा
मार्दवद्रुतमनाः किमप्यभूत् ॥३५।।
वल्लभो निधिनिधये मोहितो
मे हृदीति सुदती विचिन्त्य किम् । तं पुरःस्थमिति नादरिण्यभूद्
बिभ्रतीतरधियं पतिव्रता ॥३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org