________________
पद्मसुन्दरसरिविरचित यत्र वैणविकणिकैः कृता ।
वेणुवैणरवतारझक्कतिः । गीतिरीतिरपि नात्रुटन्मृगो--
तुङ्गशृङ्गभरभङ्गिभङ्गुरा ॥२५॥
यत्र मौरजिकधोकृतिध्वनिः
पाणिघस्य तलतालताडनम् । नाटकेषु विरराम न क्वचिद्
व्यञ्जकस्य पटुवृत्तिचा तुरी ॥२६॥
तत्र सौधशिखरक्षणान्तरे
संस्कृताभिनवमत्तवारणे । वृष्णिभूकनकयोस्तदा तदाविर्बभूव रतकेलिकौतुकम् ।।२७॥
।। द्वादशभिः कुलकम् ।।
दीपदीपकशिखोन्मिषत्विषो
रेजिरेऽत्र किमु कामभूभृतः । विष्टपत्रयजप्रथोल्लसद्
दोःप्रतापतपनस्फुरत्कराः ॥२८॥
हावभावललितास्तदा तयोः
कामकामकमनीयकेलयः । प्रादुरासुरपि वा कृशाश्विनां
ये विशारददृशां न गोचराः ॥२९॥
तां रिरंसुरथ सोऽप्यहर्दिवं
पापमाप किमु तत्त्वविक्वचित् । ज्ञानिनां किल कलङ्कपङ्कता
लिम्पते न विषयस्पृशामपि ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org