________________
Jain Education International
यदुसुन्दर महाव्य
कुत्रचिद्रचितशा लिभञ्जिकालास्यहास्यकलितोरुमण्डपम् ।
कुत्रचित्कनककेतकीदला
सन्महारजतराजिराजिता
-
मोदमेदुरिततल्पकल्पनम् ॥१९॥
भित्तयो रजतपट्टिकाभृतः ।
यस्य नैकविधघरत्नकुट्टिमा
श्वाकचिक्कलिता भुवो बभुः ||२०||
यत्पृथग्विधमणिप्रभाभरे
दर्शदर्शिततमांस्यपाकरोत् ।
चद्रकान्तकृत चन्द्रिकाऽमृतै
स्तापताऽपनयनाय यत्तपे । २१ ।।
शौरिसूनशयनीयवासितै—
र्यस्य मायकुसुमोत्तरच्छदैः । भूमयः किल ललामभूषणी
भूतभालफलका बभासिरे ||२२||
यत्र हाटकविटङ्कमङ्कजै
रुज्ज्वलस्य निरटकि भूरिभिः । शिल्पिभी रतिपतिश्रुतोदित
द्वन्द्वकेलिपरिरम्भविभ्रमैः ॥२३॥
अध्युवास किल नागदन्तकान्
च्छेक के कि कलविङ्कमण्डली । यत्र जम्पतिरतोत्सवप्रथा
कारिकाsस्ति शुकसारिकाद्वयी ॥२४॥
For Private & Personal Use Only
१५९
www.jainelibrary.org