Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 203
________________ ૨૮૨ पद्मनसुन्दरसूरिविरचित यः पौरंदरमुग्धसौधशिखरे माणिक्यरत्नप्रभा प्रारभारान्वितशातकुम्भकलशभ्रान्ति विभर्ति स्फुरन् । भानुर्भानुविभूतिभूषिततनुबन्धूकबन्धुद्युतिः प्राचीकुण्डलमण्डलं ननु लसत्येन्द्रे महे मन्महे ।।७।। कोकानां मिथुनान्यशेषविरहं शीतांशवे सञ्ज्वरं सम्प्रत्यर्कमणिभ्य एव विजहुः स्वानन्दसान्द्रोत्सवम् । सार्ध तैरथ संविभज्य च भिथः पद्माकरैर्वीक्ष्य तं कर्कन्धूकुणशोणमम्बरमणि व्यातेनिरे मङ्गलम् ।।८।। अरुणकिरणैः कालिमन्या मधुव्रतमण्डली किमरुणमणेः शोभारम्भं बभार विसारिभिः । दरविकसितं पद्मा पद्माकर कुमुदान्मुदा विनिमयमयं मन्दं मन्दं निजासनमासदत् ।।८१।। विश्वस्मिन्नपि कामकेलिजलधेः पारीणमेकं स्तुमः चक्रद्वन्द्वमिदं वियुज्य सततं सम्भुक्तिमन्विच्छति । प्रेमारोचकरोगरुग्णवपुषा चण्डीश्वरेणानिशं . किं नाकारि रसायनायितगरग्रासोरुविस्फूर्तये ।।८२।। निद्राणामरविन्दिनीं मधुकराः प्रौद्बोध्य सांराविणैः सानन्दं मकरन्दमेव निपपुङ्गीसखाः सम्प्रति । स्वादुकारमथो मधूकमधुरं वध्वा निपीयाधरं । __ श्येनी पद्मवनी क्षणाद्रविकरैर्गुञ्जानिकुञायिता ॥८३।। सौर: कुङ्कुम पङ्कसङ्करकरैराश्लिष्यतेऽभ्रंकषा सौधश्रेणिरसौ गवाक्षविवरालीनाङ्गुलित्वं गतः । दीप्तिभर्तृवियोगिनी शिखिशिखामाविश्य याऽस्तं गतं सा स्वःस्था पतिमुज्जहार मिहिरं साध्वी किमुर्वीतलात् ।।८४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206