Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 201
________________ १८० Jain Education International पद्मसुन्दरसूरिविरचित अशिशिरको रोषाददोषां जघान निशापतौ गलितहास ध्वस्ते निस्तेजसि सङ्ग्रहे । शितितमतमः केशग्राहं ननूदयभूधरे तदरुणमसृग्वाहं संवावहीति हरेर्हरित् ||६७।। रजनिरजनिक्षिीणा तारा विनेशुरथ क्षणा दपि कुमुदिनी निद्रामुद्रां नितान्तमुपेयुषी । द्रुतमपि नयत्सान्द्रश्चन्द्रः प्रियाविरहाद्द्भुत - स्तदयमदयोऽथाश्मः साक्षात् ध्रुवं प्रमिमीमहे ॥ ६८॥ मिहिरहरिणा ध्वान्तोदामद्विपः स्वकरोत्करप्रखरनखरैर्भिन्नस्तत्कुम्भजैर्ननु शुक्तिजैः । नवकुशशिखा सूचीप्रोतैस्तुषारकणैरियं सृजति निजकं हारं सन्ध्या नवोढवधूरिव ॥ ६९ ॥ करशरभरक्षेपाद्रात्रौ तमः सहयुध्वना रजनिपतिना खेदक्षीणौजसोषसि मन्दितम् । उषितममुना स्वांशभ्रंशाद् गिरीशजटाच्छा त्रिदशतटिनीतीरच्छायातरुव्यतिषञ्जनम् ॥ ७० ॥ — उदयतितरां धर्मज्योतिः कलानिधिरस्ततां व्रजति कमलान्युज्जृम्भन्ते निमीलति कैरवम् । प्रियमतिरसात्कोकी कोकं वृषस्यति तामस द्विजकुलमगाद्बाधां नानाविधा हि विधोर्विधाः ॥ ७१ ॥ कुमुदवनताबन्धुः सिन्धोः सुतोऽथ कलानिधिविघटिततमो दस्युस्तोमस्तमीदयितापतिः । भुवनजनता नेत्रानन्दी द्विजोऽत्रिज एव यो हतविधिहतः सोऽस्तं यातोऽमृतद्युतिरद्युतिः ॥७२॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206