Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 200
________________ यदुसुन्दरमहाकाव्य धुमणिकिरणस्फूर्तावुन्निद्रतां नयनद्वयी नलिनवनतास्फारामिन्दिदिरैर्दधती तुलाम् ।। पियसहचरीनेत्रापातैर्निपीतरसा रसा द्भवतु भवतः शय्योत्थायं प्रमोदविभूतये । ६१॥ शतमखशचीद्वन्द्विकान्तव्यवायविवर्तन ___च्युतसुमनसस्तारास्तारा नभस्तलिमे बभुः । अशकलशशी गण्डाभोगोपबर्ह मिहार्हति प्रसृमरकरस्तोमक्षौमोत्तरच्छदतां दधत् ।।६२।। शिशिरकिरणे रन्तुं याते जलेशदिगङ्गनां व्यपगतवसुः सोऽयं चक्रेऽनयाऽपि कलानिधिः । इति हरिहरिददर्श दर्श' जहास विकासिनी परिभवपदं प्रायोऽस्वीयः परिग्रहसमहः ॥६३॥ तरणितरुणः प्रातःसन्ध्यां विवोढुमिवारुण __ प्रतिसरकरः संबिभ्राणां सुमङ्गलमण्डनम् । परिसरलसज्ज्योतिर्लाजाहुतिं दधतीमिमा मरुणिमबृहद्भानौ सानौ किलोदयभूभृतः ॥६४।। विबुधमिथुनानङ्गक्रीडात्रुटच्छतयष्टिक प्रेकरविकिरन्मुक्ता मुक्ता जवादुडुसंहतीः । इह बहुकरैः सम्माष्टिं स्म ध्रुवं गगनाङ्गणे ___ दशशतकरः प्रातः प्रीतः शतक्रतुनोदितः ।।६।। हरिहयपुरस्तारादीपाक्षतैश्च तमोरुहा शवलकवलैः मृष्टातिथ्यो घनाश्रयसज्जनः । वितरित शशिग्रासं भूयस्तरामुदसकतुजं प्रसरविसरत्पाद्यं ज्योत्स्नाजलं परिशीलयन् ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206