Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 199
________________ १० पद्मसुन्दरसरिविरचित अथ निगदति प्रेयस्येवं प्रियप्रमदा मुदा नयनमनयन्निद्रामुद्रावशं भृशजागरात् । कृतदृढपरीरम्भारम्भौ मिथो मिलिताधरौ द्रवदभिनवामन्दानन्दाविमौ च निदद्रतुः ।।५५।। प्रियसहचरीपीनोरोजस्फुरत्तरपत्रता स्वकरिमकरीमुद्रीभूतस्तनान्तरमण्डलः । विभुरिह बभौ पर्यकाङ्के मिथः श्वसनानिल व्यतिकरमिलद्रूपं द्वन्द्वं सुखं तदसू षुपत् ।।५६।। निशि शशिरुचा यान्त्यामान्त्यां दशामथ तारका स्तरलतरलच्छायामायामिता व्यगलन्निव । हरिकरहरित्रासादासादितश्चरमां दिशं तिमिरकरिराट् कामं कामं मरुत्पथकाननम् ॥५७।। अथ कथमपि प्रेक्षाचक्षुर्विवक्षितविग्रहाः कुशलकुशलारब्धा दृब्धा गुणैरिव मालिकाः । स्फुटमतितरामेते वैतालिका जगदुगिरो यदुकुलपतेर्जागर्यायै प्रचारपुरस्सराः ॥५८।। जय जय जगज्जैत्रक्षात्रान्वयाम्बरचन्द्रमः स्वरसविसरत्कीर्तिज्योत्स्नाप्रसादितविष्टप । सुमुखसुषमा भग्ना मग्ना कलङ्कनिषद्वरे मलिनमलिनच्छायां त्वत्तो दधौ विधुमण्डली ॥५९।। सुररिपुरिपोर्वक्षो लूताऽऽतपत्रितकौस्तुभं सितबिसलतातन्तुच्छन्नं स्वपक्कजमन्दिरम् । विधुमथ जही मत्वा लक्ष्मीः शिलीन्ध्रमिवासनं तव यदुपते ! स्थाने स्थेम्णा कराम्बुजमाश्रयत् ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206