Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 197
________________ १७६ पद्मसुन्दरसरिविरचित प्रथयति करानादित्सुस्ते मृगाक्षि ! मुखप्रभा विधुरथ दिवा फुल्लाम्भोजान्करानपि पद्मिनी । सुषमसुषमेऽप्येकत्रार्थ द्वयोः किल लुब्धयो रिति कमलिनीतारापत्योस्तदास सपत्नता ।।४३।। न भगणपरीवारो नामुं महौषधयः स्त्रियः किमपि च जरामृत्युच्छेत्री सुधा न सुधाकरम् । द्विजपरिषदामाशी/जी न वा सरिताम्पतिः क्षयसमयतस्त्रातुं कोऽपि प्रभूष्णुरभुन्नहि ।।४४ ।। अयमथ तमिस्रायामेकादशापि कला निजा विसृजति शशी रुद्रेभ्योऽथ स्मराय च पञ्च ताः । शरधिविधये कृत्वा भूतिं स्वकामिति पात्रसा न्मुहुरलमलञ्चके स्वाभिः कलाभिरिलातलम् ।।४५।। शशधरसुधाकुण्डादकस्फुरच्चषकक्षिपां नभसि भगणो वध्वापानोऽमृतस्य सपीतये । कलयतितरामच्छातुच्छस्फुटस्फटिकोपल प्रघटितदले शके पङ्केरुहाक्षि ! निरीक्षसे ॥४६॥ किल कमलभूर्वक्त्राम्भोजं त्वदीयमिदं यतो __नयननलिनद्वन्द्वाधानात्प्रतीक्ष्यमपूजयत् । तदिति शशिनो म्लानिच्छायामषीकलुषं मुखं नहि शशमृगाद्यकाशङ्कालवः प्रमिमीमहे ।।४७।। अयि ! कुमुदिनीभर्ता स्थाने चकार करग्रह सरसिजकराग्लेषादेषा जहास कुमुदती । नवधवपरीरम्भामोदप्रमोदभरदवत् तरमधुरसस्वेदार्दाि तनूमनुविभ्रती ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206