Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 196
________________ यदुसुन्दरमहाकाव्य १७५ रजनिरजकी चन्द्रागाधहदामलचन्द्रिकाप्रसरविर यत्सकलाम्बरम् । तिमिरनिकरच्छायानीलीमलीमसमातत-- स्मरहरशिरःसिन्धूतानप्रवाहसहोदरः ॥३७।। कुमुदनिकुरम्बाणामारूढयोगिपदस्पृशां किल विदधतामन्तर्मोदं जडेषु विरक्तताम् । अयि ! सुरवधूर्योत्स्नी ताराकटाक्षशशिस्मितै श्चिरपरिचिता ज्योत्स्नाकल्पैर्बभञ्ज समाधिताम् ।।३८।। ननु सहगतः शुभ्राङ्गत्वं बिभर्ति तमिस्रया शितितनुविधामेप ज्योत्स्नी निशाऽथ निशाकरः । असितसितयोः शोभाभूत्यै कृशोदरि ! पक्षयो-- गैदति हि बहिर्बुद्धिलॊकस्तमऋविटक्कितम् ।।३९।। यदि स भगणानेकीकृत्य प्रगल्भतया विधि घटयति विधुं नव्यं तद्व्यञ्जयत्यकलकितम् । अधरमधुरास्वादं साक्षात्त्वदास्यसुधाकरं कथमिव तुलां धत्तां चन्द्रः कलङ्कविडम्बितः ।।४।। विधिरिह गुणानादात्सौधाकरादपि मण्डला न्मुखविधुविधौ यत्ते दोषाकरोऽयमभूत्ततः । अनुशशिमृगात्सारं नीत्वा त्वदक्षियुगं व्यधात् स्थित इति गताक्षोऽसौ तस्मिन्निरस्य भवन्मुखम् ।।४१।। मुखमिति सुधासारं यत्ते विधिनिरमात्ततः खलु खलकृतं पिण्डं तस्यावशिष्टमखण्डितम् । स किल सकले लोके ख्यातः शशाङ्क इति स्फुट कलय सकलं विम्बं पङ्कच्छविच्छलपिच्छिलम् ॥४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206