Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 194
________________ यसुन्दरमहाकाव्य दिनमणिमणि सायाह्नस्तु प्रतारणतापटुः सुरुचिरुचिरं क्रीत्वा व्योम्नो व्यतीतरदेष यम् । कृतककनकं चान्द्रं बिग्बं जहाति सहा स्वयं स्फुटमरुणतां पाण्डुच्छायः क्रमाद्रजतीभवन् ।।२५।। प्रथममभवन्सायच्छायासुकुङ्कुमपङ्किला स्तदनु च तमःकस्तूरीभिर्विभूषितविग्रहाः । सुदति ! विचरच्चञ्चच्चन्द्रद्युतिव्यतिचुम्बिते रिव शुशुभिरे काष्ठावध्वश्चिता हरिचन्दनैः ।।२६।। विधुमणिविधादुग्धे मुग्धे ! विवर्द्धयितुं विधु जलनिधिमपः कोकीशोकाकुलेक्षणमण्डलीः । निजकरसुधाऽमन्दस्यन्दप्रवाहमरहयत् फलति हि सतामृद्भिः पूज्यक्रमापचितिक्षमा ॥२७॥ तपनतनयापूराकारे विहायसि चन्द्रिका त्रिदशतटिनीवाहव्यूह। व्यगाहत तत्र च । सुचरितपदे वेणीसङ्गे निमज्ज्य दिवंगताः किल सुकृतिनस्ताराकारा धुवं विनिमीलिताः ।।२८।। तिमिरगरलास्वादादेता निमीलनतामिता __ निजकरसुधासेकैराशावधूः समजीजिवत् । विधुरथ नभःपारावारेऽन्तरीपनिभो बभौ प्रसरविसरज्ज्योत्स्नाजालस्फुरज्जलपूरिते ॥२९।। सुरपथसरःपूरे ज्योतिर्वलज्जलसम्भृते किमपि मुकुलैस्तारैः श्यामालताश्रियमावहत् । नलिननयने ! शके पङकेरुहश्रमविभ्रम शशधर इहाधत्ते हासप्रकाशनसौरभः ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206