Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 193
________________ १७२ पद्मसुन्दरसूरिविरचित तम इव निजारातौ घने पदार्थगणस्य किं प्रतिपदचरीश्छायाचारीः प्रचारगवेषणे । निखिलभुवने मन्ये प्रावेशयत्तदिति प्रभौ गदति झगिति प्राची किर्मीरितांशुभिराबभौ ॥१९।। कुमुदवदने ! स्वभ्रातृव्यप्रशस्तिमसासहिः किमु कुमुदिनीकान्तः प्राचीमुखादुदगादिव । तदयमदयं शोणः क्रोधादिति स्वकरोत्करैः किल विघटयन्विश्वद्रीची तमोरिपुसन्ततिम् ।।२०।। कुचगिरितटीदुर्गे मानःस्फुटे मयि मानिनी जनहृदि किमद्यापि म्थेयान्क्रुधेत्यरुणो विधुः । विकचवदनाभृङ्गश्रेणीलसत्करवालिकां __ प्रसृमरकरः कर्षत्युच्चैः सुकैरवकोशतः ।।२१।। उदयशिखरिप्रस्थोच्छायच्छलप्रतिसीरया व्यवहिततनुश्चन्द्रश्चञ्चच्चकोरदृशोरपि । विकिरति सुधाधारासारानिव स्वकरैरयं कुमुदविशदस्मेरा दृष्टिं प्रसादय सादरम् ॥२२॥ हरिहयहरित्कुम्भीन्द्रेण स्वसोदरताधिया शिरसि विधृतः सिन्दूरेणारुणो विधुरुद्गतः । किमु सुरववधूवृन्दैबिग्वं तदीयमचुम्बि तैः ___ स्ववदनतुलारागाद्यावद्रवारुणिताधरैः ॥२३॥ निविडरजनीपीतं व्योम क्षणाक्षणदाकर द्युतिभरसुधाव्यासङ्गेनारुणत्वमवाप यत् । स्वकरकठिनीघर्षेः सम्मार्जयन्नमृतद्यती रजनिरचितां ध्वान्तस्योडुप्रशस्तिमदीदिपत् ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206